॥ १. मङ्गलश्लोकाः ॥
📖 न्यायामृतम्
▼
निखिलगुणनिकायं नित्यनिधूतदेयं
ज्ुभतममतिमेयं शुद्धसौख्या्युपायम् ।
सकलनिगमगेयं सर्वशब्दाभिधेयं
नक्जलधरकायं नौमि लक्ष्मीसदायम् ॥ १ ॥
विष्नौघवारणं सत्यारोषपिरवस्य कारणम् ।
करुणासिन्धुमानन्दतीर्थबन्धुं हरं भजे ॥ २ ॥
अभ्रम भङ्गरदितमजड विमलं सदा ।
आनन्दतीर्थमतुलं भजे तापत्रयापहम् ॥ ३ ॥
चित्रैः पदेश गम्भीरेवाकयैमनिरखण्डतैः । `
गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक् ॥ ४ ॥
समुत्सार्य तमःस्तोमं सन्मार्गं सम्प्रकार्य च ।
सदा विष्णुपदासक्तं सेवे ब्रह्मण्यभास्करम् ॥ ५ ॥
ज्ञानवैराग्यभक्त्यादिकल्याणगुणशालिनः ।
लक्ष्मीनारायणमुनीन् वन्दे वियागुरून्मम । ॥ ६ ॥
श्रीमध्वशस्त्रदुग्ागिं धीमन्द्रमहीमृता ।
आमथ्योद्धियते न्यायामृतं विबुधतृप्ये ॥ ७ ॥
विक्षिप्तसङ्ग्रहात् कापि काप्युक्तस्योपपादनत् ।
अनुक्तकथनात् कापि सफलोऽयं श्रमो मम । ॥ ८ ॥
श्रीव्यासरामाचार्यविरचिता
📖 अद्वैतसिद्धिः
▼
मायाकल्पितमातृतामुखमृषाद्वैतप्रपञ्चाश्रयः सत्यज्ञानसुखात्मकः श्रुतिशिखोत्थाखण्डधीगोचरः ।
मिथ्याबन्धविधूननेन परमानन्दैकतानात्मकं मोक्षं प्राप्त इव स्वयं विजयते विष्णुरविकल्पोज्झितः ॥
श्रीरामविश्वेश्वरमाधवानामैक्येन साक्षात्कृतमाधवानाम् ।
स्पर्शेन निर्धूततमोरजोभ्यः पादोत्थितेभ्योऽस्तु नमो रजोभ्यः ॥
बहुभिर्विहिता बुधैः परार्थं विजयन्तेऽमितविस्तृता निबन्धाः ।
मम तु श्रम एष नूनमात्मम्भरितां भावयितुं भविष्यतीह ॥
श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचितातियत्नात् ।
बोधाय वादिविजयाय च सत्वराणामद्वैतसिद्धिरियमस्तु मुदे बुधानाम् ॥
📖 न्यायामृततरङ्गिणी
▼
भरियस्सदानन्दगुणैर्भृतं भुजे भुजेऽप्यदोषं तदशोषशक्तिमिः ।
विरोषवाणीमितमात्मनो मुदामुदारमीशं प्रियवद्यभं नुमः ॥
साधु प्रसाधितगुणोपनिषत्सखीभिः सूत्रग्रदानुसुतकञ्चुकिवाचि दक्षा ।
वंशाग्रगाऽपि जयवाक्ुविनतङ्की यचित्त जहार तमपारकृपं नमामि ॥
ऋरगुपनिषददुगाद् दूरयन् योऽरिवर्गानधिहरि विजयादिव्याप्त एवोदपादि ।
स जयति यतिराज सगमुैर्विराजः परिधृतजयसञ्ज्ञः स्वंमियास्वमिज्ञः । ॥
शुकेन शान्त्यादिषु वाद्भयेषु व्यासेन धैर्यऽम्बुधिनोपमेयम् ।
मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्वगुरुं नमामि ॥
` छन्दस्साद्गमुरङ्गमङ्गखगवीर्जैमिन्युपज्ञं मतं
ल्यासोदन्तमवूबुधच्च समधाद् यो पिभनाथाभिधाम् ।
धर्मं व्याकृत पूर्णधीकृतसदाचारस्मृतिव्याकृति
व्याजेन प्रणमामि तं पितरमुद्रोधाय शब्दार्थयोः ॥
पदादिविद्ां बहुविनिषद्यामध्यैषि तत्तवैषिवराद् यतोऽहम् ।
नमामि तं व्यासकुलावतंसं नारायणाचार्यमथाग्रजं मे ॥
व्यासबिन्दुरसाचार्यकृतीषन्याकृतिच्छलात् ।
रामो महत आनम्य श्रुतं सौवं शुुत्सति ॥
मङ्गलश्लोकाः । । ध
उयद्वयासमहोदपे्यदुरुधीगम्भीरकुम्भीर्नयद्
भङ्गान् सत्प्रतिविग्बमम्बुजदशा पत्तीविवित्रीकृतम्
इह॒ खलु सकलविद्रन्मणिचिन्तामणिः श्रीव्यासतीर्थविन्दुः पुण्यप्रचयपूर्णवेदान्त्रवणः
भ्रुतमर्थं मिमनिषया निबिभन्त्सुनिम्बन्धगोचरपरीक्षक्यवृत््यङ्गदिषयादि वक्तु विरिष्टविषयादिमद्
बरहममीमांसया निबन्धं सम्बन्धयितुं चतुर्लक्षणी विवक्षितविशेषणचतुष्टयवत्त्वनेष्टदेवतामभिष्टवीति
निखिलगुणनिकायमित्यादिना ।
चनुरलक्षण्यां प्रथमलक्षणे समन्वयाख्येऽप्यायानन्तानन्दादिशब्दानां महायोगविद्धदरूदिभ्यां
भगवत्परत्वे तत्तच्छब्दप्रवृ्तिनिमित्तलाभात् निखिलगुणाभ्रयत्वं भगवतः साधितम् । तद्
आयविरेषणेन सङ्गृहीतम्! द्वितीयेऽविरोधलक्षणे गणदोषयोः सहचारदशनाद् दोषराङ्कायां `
श्रुतीनां विरोधपरिहारात् निदोषत्वमाघोषितम् । तद् दवितीयविरोषणेन सञ्जग्राह । एवंविधः
परमात्मा कथं ज्ञेय इत्यपेक्षायां वेराग्यादिसाधनसम्पन्नेनाधिकारिणा साक्षात्कर्तव्य
इत्येतमर्थमभिदधत्तृतीयस्य साधनलक्षणस्यार्थं तृतीयविेषणेन निदिदेश । ज्ञातः परमात्मा कं
पुरुषार्थं दास्यति इत्यपेक्षायां स्वरूपानन्दमाविभांवयतीति प्रतिपादयतश्चतुर्थस्य फललक्षणस्य
चतु्थविरोषणेनसङ्ग्रहःकृतः । निखिलगुणनिकाये^त्यादिचतुर्विंेषणोपपादकत्वेन “सकलनिगम
गेयमि!त्यादिचतुर्विशेषणानि । तत्े्द्रादिपरतया प्रतीयमानानां वाक्यानां भगवद्विषयत्वेन
निखिटगुणाभ्रयत्वं भगवतः सिद्धयतीति (सकलनिगमगेयमित्यनेनोपपादितम् । जगत्कारण
विषयत्वेन प्रतीयमानानां प्रकृत्यादिशब्दानां भगवद्िषयत्वे भगवतः सर्व॑कर्तत्वादिना निर्दोषत्वं
सिद्धयतीति “स्वेशन्दामिधेयमि!त्यनेनोपपादितम् । वाक्यार्थपदार्थरूपत्वेन निगमगेयत्व-
गब्दाभिधेयत्वयोभेदः । निराकारस्य ध्यानादि न सम्भवतीति शङ निराकुर्वता
नवजलधरकायमि! त्यनेन भगवतः शुभतममतिमेयत्वमुपपादितम् । लक्ष्म्याः सहायं
लक्ष्मी सहायमित्यनेन सर्वपुरुषार्थप्रदत्वोपपादनं द्रष्टव्यम् । लक्ष्म्या “यं कामये तं तमि!'ति
स्वमहिमानमुक्त्वा (“मम योनिरप्स्वे'” ति स्वसहायस्य परमात्मनोऽभिधानात् । निकायशब्दस्तु
चिनोतेर्घनि वृद्धौ चकारस्य ककारादेगो च ““निवासचितिशरीरोपसमाधानेष्वादेश्च कः"
इत्यनेन निवासार्थे साधितः ॥ । स्वापेक्षितविध्ननिवारणगुणत्वेन भगवन्तं सेवते
विष्नोधेति ॥ ।
भाष्यकृतं सेवते- अग्रममिति ॥ अत्रा^नन्दतीर्थमि' त्यनेन जलाशयतीर्थरूपतायां ध्वनितायां
परसिद्धगङ्गादितीर्थसाम्यप्रसक्तौ तद्रैषम्यमाह - अतुलमिति । भत्र भ्रमरशब्देन प्रतीत आवर्तो
` इलेषयोरङ्गाङ्गिभावेन सङ्करः । भङ्ग" शब्देन तरङ्गाभिधानात् तद्राहित्योक्त्या प्रसिद्धतीर्थवेषम्यम्, `
तथां पराभवशून्यत्वं च ॒ध्वन्यते । अजडमि,त्यनेन जलात्मता पर्युदस्यते इति तन्द्रेषम्यम्,
तथा लडयोरभेदात्यूण॑ज्ञानात्मता च ध्वन्यते । ^तापत्रयापहमि"' त्येकतापनिवारकजलाशयाद्
वेषम्यम् । ययपि- “अपे क्लेशतमसोः' इत्यनेनापपूर्वा्न्तेः क्टेशतमसोः
कर्मणोरुपपदयोप्रत्यय उक्तः । तथापि ब्रह्मभ्रूणे!" त्यादिवदुपपदनियमस्यानाभितत्वात्
इप्रत्ययोपपत्तिः । ““सूत्रारम्भस्त्वनाशीररथ"” इति कारिकायां वृत्तावेवोक्तम् । ॥ ३ ॥,
जयतीर्थवाक्स्तुतिव्याजेन जयतीर्थ स्तौति । चितरैरिति । चित्रैः पदेः । गम्भीरः वाक्यैः,
अखण्डितैः मानैः । पदानां चित्त्वं नामान्वयबोपहेतुतावच्छेदकावष्छि्न- पदार्थोपत्यिति
जनकतावच्छेदकावच्छिननत्वम् । वाक्यानां गम्भीरत्वं नाम समासादिवृत्तिमत्त्वम् । प्रतिमान
पराहतिशून्यत्वं मानानामखण्डितत्वम् । एतेन पदवाङ्यप्रमाणनिर्णायकव्याकरणमीमांसान्याय
वि्यवैदण्ध्यमुक्तम् । स्वस्य संन्यासगुरु ब्रह्मण्यतीर्थं सेवतेसमुत्सार्यति । चरान्दोऽपिशब्दार्थः ।
सदा सर्वावस्थास्वपि । तदुक्तम् ““अत्यशक्ये तु निद्रादौ पुनरेव समभ्यसे'' दिति ।
तमस्स्तोमनिवृत्तिसन्मागप्रकारानरूपप्रयोजननिरवत्यनन्तरमपि विष्णुपदासक्तमित्युत्तयास्वाभाविकं
विष्णुपदैकसंश्रयत्वमुक्तम् । षियोपदेष्न् गुरूजमति- ज्ञानेति । ज्ञानेत्यादिना वियोपदेशहेतुत्वं `
व्यवस्थापितम् । ग्रन्थाभिधानमाह- श्वीमध्वेति । स्वकृतस्य निबधस्यावान्तरप्रयोजनवत्तामाह-
विक्षिष्ेति ।
पाण्डुरङ्गि आनन्दभट्वरक विरचितः
न्यायामृतकण्टकोद्धारः
नरसिंहं हयग्रीवं वेदव्यासं गुरु तथा ।
नत्वा न्यायामृतव्याख्यां करिष्ये विशुद्धये ॥
अत्र गरन्थकृदभीष्टकर्मणो निर्विध्नपरिसमाप्यायर्थं कृतं परदेवतास्तुतिनतिरूपं मङ्गलं रिष्यरि्षार्थं ग्रन्थे
निबध्नाति- निखिलेति अत्र॒ परिच्छेदचतुष्टयात्मके ग्रन्थे “अथातो ब्रह्मजिज्ञासे'”- त्यायाध्याय
बतुष्टयात्मकरास्ज्प्रतिपायानामनन्तगुणपूर्णत्वनिर्दोषत्वसाधनविषयत्वफलदातृत्वानां प्रतिपायतया तत्तद्विरोषण
वत्वेन हरिः स्तूयते । तत्राऽयाध्यायार्थः- निखिठेति । अत्र निकाय इति गनिपूर्वङ्कात् “चिञ् चयने"
इत्यस्माद्धातोः ““निवासचितिशरीरोपसमाधानेष्वादेश्च कः” इति सूत्रेण घञि धातोरादेश्च ककारादेगे
प्रयोगसाधुत्वं द्र्टव्यम् । एवं सति निवासार्थ पाय्यसानाय्येति सूत्रेण निकाय्य इति निपातनानिकाय
इत्यनुपपनमित्यपास्तं भवति । द्वितीयाध्यायार्थः- नित्येति । नित्येति विरोषणं मुक्तव्यावत््यर्थम् ।
तृतीयाध्यायार्थः- शुभतमेति । मतेः शुभतमत्वं यथार्थत्वम्, स्वयोगयतया पूर्णत्वं वा । चतुरथाध्यायार्थः-
शुद्धेति । सुखस्य शुद्धत्वं दुःखासम्मिनत्वं बाऽनन्तत्वं बा स्वयोग्यतया पूर्णत्वं वा । उपायत्वं च प्रदातुत्वम् ।
मल्युत्पादकमाह सकलेति । निगमरब्देन सदागमा गृह्यन्ते । आगमप्रतिपायता लक्षणयेति शाङ्कानिरासार्थमाह
- सर्वेति । गाब्दाः संस्कृतशब्दाः । निराकारत्वनिवृत््र्थमाह- नवेति । ग्रन्थारम्भे बाण्व्यापारस्या
पेकितत्वाद्रागभिमानित्वाच लक्ष्याः पार्थक्येन तद्वन्दने स्वातनत्यप्रतीतिर्मा भूदिति भवेनाहलक्ष्मीसहायम्
इति । अत्र लक्ष्म्याः सहाय इति तद्पुरुषः ।
एवं स्वे्टोत्कृष्टदेवतां प्रणम्योत्तरग्रन्थोपक्षेपाय प्रारिप्सितविष्ननिवर्तकत्वेन हरिं स्तौति । विध्नौपेति ।
शास्त्रकर्तारं मध्वाचार्यं॑प्रणमति- अभ्रममिति । ययप्यत्र “अपे क्लेशतमसोरि''ति अपपूर्वाद्न्तेः
क्लेरातमसोः कर्मणोरुपपदयोपत्ययषिधानात् प्रकृते तदभावात् ^तापत्रयापहमित्ययुक्तम् । तथापि (“अन्येष्वपि
द्दयते'” इत्यपिप्रहणात् सर्वोपाधिव्यभिचारार्थाद्धातवन्तरादनुपपदादुपपदान्तरयुक्तादपि उपत्यय इत्यर्थलाभेन
इप्रत्ययोपपत्तिः । अत एवोक्तं काशिकायाम्- “अपिशब्दः सर्वोपाधिव्यभिचारार्थः* इति । तेन धात्वन्तरादपि
उप्रत्ययो भवतीत्यर्थः । अत्र॒ भरमेत्यज्ञानोपलक्षकम् । तेनाज्ञानभ्रमरहितमित्यर्थः । रमरहितमि' त्यनेन
प्रमादराहित्यम्, “अजडमित्यनेन करणापाटवराहित्यम्, “विमलमित्यनेन विप्रलिप्साराहित्यम् । एवं
चाज्ञान्मविप्रलिप्साकरणापाटवानामभावोक्त्या परमाप्त्वं॒प्रसिद्धतीर्थबेलक्षण्योक्त्याऽतुखत्वं चोक्तं
भवति । सदेति प्रत्येकमन्वयः । “आनन्दतीर्थमित्यनेनानन्दप्रदं शास्त्रं यस्मादिति व्युत्पत्या शास्त्कर्तृत्वमुक्तं
भवति ।
टीकाकर्तारं स्तौति ~ चित्रैरिति । भत्र पदानां चित्रत्वमबोधकत्वादिराहित्यम् । वाक्यानां गम्भीरत्वं
7हनाथकत्वम् । मानानामखण्डितत्वं प्रतिपक्षादिविधुरत्वम् ।
आभ्रमगुरं प्रणमति - समुत्सार्ेति । विदयागुरून् प्रणमति ~ ज्ञानेति । करिष्यमाणग्रन्थमूलं दर्शयन्
रन्थनाम निर्दिंङति- श्रीमध्वेति । स्वग्रन्थस्य साफल्यमाह- विक्षिपतेति । न च अनुक्तकथनादित्ययुक्तम्,
ूर्वाचार्यप्रणीतप्राचीनग्रन्थेषु कथितस्थैव सर्वस्या कथनात् । अन्यथा तत्र तेषामनज्ञानप्रतिपादनमनेन कृतं
स्यात् । तथाच प्रमाणविरोध इति वाच्यम् । ज्ञानिनामप्युक्त्विमुख्यदरशनात्, ज्ञातस्य सर्वस्योक्तिनियमाभावात्,
अस्मदादिष्वपि ज्ञातसर्वानुक्तेरनुभवसिद्धत्वाच्चानुक्तकथनादिति यथाश्रुतमेव साष्वित्येके । तनन मनोरमम् ।
अन्रोक्तसर्वर्थस्य मूलकोो तत्र तत्र दर्शानात्, स्वोक्तार्थे मूलकोशसम्मत्यादेः कथितत्वा्च । किच्चात्राचार्या
नुक्तोऽर्थः कथ्यमानः किमवदयवक्तव्यः ! किं वाऽवक्यावक्तव्यः ? नान्त्यः । (“आमथ्योद्धियते न्यायामत्तम्"”
इति स्वेनैव स्वग्रन्थस्यामृतत्वोक्त्याऽतिङायार्थप्रतिपादकत्वप्रतिपादनादबदयावक्तव्यार्थवचने स्वोक्तिविरोधापत्तः ।
नाद्ः । आचार्योक्तर्थस्य न्यूनत्वापत््या तस्यपरक्षावतत्वपत्तेः । आस्योपिक्षादिरहितस्याचार्स्या
वर्यवक्तव्यार्थानुक्तौ कारणाभावा! तस्मादनुक्तत्वेन प्रतीयमानत्वमेवानुक्तशब्दार्थः ।
न्यायामृतप्रकाराः
वासवीहदयानन्दं वेदङास्न प्रणायकम् ।
. वेदन्यासङ्गुरूपास्यं वन्देऽभीषटप्रदायकम् ॥ १ ॥
श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसेवितम् ।
श्रीव्यासं श्रीमदानन्दतीर्थसंसेव्यमाभजे । ॥ २ ॥
हृत्तमोनारकमास्त्रप्रभया तत्वभासकम् ।
नमामि श्रीमदानन्दतीर्थाचार्यदिवाकरम् ॥ । ३ ॥
्रतिक्षीरान्धिमामथ्य बुद्धमन्द्रमूमृता ।
प्राप्ता न्यायसुधा येन तं जयेद्रमहं भजे ॥ ४ ॥
ब्रह्मण्यतीर्थवार्युथं व्यासतीरथेदुमाभने ।
तात्पयञ्चन्द्रिकायुक्तं सर्वतापापदं सतम् ५ ॥
वेदव्यासान्धिसञ्जातं सदा हरिपदाश्रयम् ।
पदार्थकौमुदीयुक्तं वेदेदोदुमहं भजे ॥ ६ ॥
भ्रीमन्यायसुधाया चैभिः सम्यक्प्रदर्ितः ।
तान्वन्दे यादवाचार्यान्सदा विद्यागुरूनहम् ॥ ७ ॥
अथ तत्कृपया न्यायामृतस्येदं प्रकादानम् ।
क्रियते श्रीनिवासेन गुरुरिक्षानसारतः ॥ ८ ॥
इह॒ खलु ॒व्यासतीर्थं श्रीमचरणः श्रुतमर्थंमिमनिषया निविभन्त्सुः परीक्षकप्रृ्त्यङ्गभूतमनुबन्धचतुष्टयं वक्तं
विरिष्टविषयादिमद्भह्यमीमांसया निवध्य॒ सम्बेधयितुं चतुर्लक्षणीमीमांसाविवक्षितविरोषणचतु्टयवच््ेनेष्ट
देवतामभिष्टवीति । निखिलेत्यादिना ॥ निखिलगुणपूर्णत्व नित्यनिर्धूतदेयत्वयोर्हतहेतुमद्वावः शश्रियःपत्ये
नित्यागणितगुणमाणिक्यविङदप्रभाजालोद्खासोप हतसकलावद्यतमस"' इति टीकाकारोक्तरीत्यावगन्तव्यः ।
ननु निकायमिति कथम् । निकाय्यनिल्याल्या इत्यमरकोरे ` “पास्यसात्नाय्य निकाय्य
धाय्यामानहविर्निवाससामिधेनीषु"” इति सूत्ैच निकाय्यङृ्दस्यैवनिलय वाचित्वोक्तर्निकाय्यम् इति वक्तव्यत्वादिति
चेत् । अनाहुः । निूर्वङ्काननिवासार्थकाचिनोतेर्धातुविरोषाद्रज्यरत्ययेऽकारमात्रे विहायसर्वस्यापि लोपे च कारस्थस्य
इकारस्य एकाररूपे गुणे प्राप्ते अचोऽन्णितीति ेकाररूपवृद्धौ सत्यां तस्य चायदेशे चकारस्य ककारदेगेनिकायम्
इति रूपस्य ““निवासचितिदारीरोपसमाधानेष्वदेश्वक'' इति सूत्रे निवासर्थे साधिततया निखिल गुणानां
निवास आश्रय इत्यर्थो द्रष्टव्य इति । गुरुचरणास्तु । नायं निकायडाब्दः कोरासू्रोक्तरीत्या निवासार्थे रूढोऽभिप्रेतः ।
क्तु अव्ययानामनेकार्थत्वान्निखिलगुणा एव नितरां कायो यस्येत्यर्थस्यामि प्रेततया न कोपि श्ुद्रोपद्रव
इत्याहुः ॥
रुभतमेति ॥ मतिशञब्दस्य ध्यानार्थत्वे तस्याः श्युभतमत्वं नाम वैराग्य भक्तिदादर्योपकृतत्वम् । तेन मेयं
साक्षात्कर्तव्य । अपरोक्षज्ञानार्थत्वे तु वैराग्यभक्तिध्यानजातत्वेन श्ुमतमत्वं तस्य मन्तव्यम् । तेन मेयं विषयीकर्तव्यम् ।
यद्वा नित्यानित्यवस्तुदिवेक्वैराग्यङमदमादिसम्पत्तिममक्षारूपसाधनचतुष्टयसम्पत्नत्वेन श्ुभतमा ये पुरुषास्तेषां मत्या `
मेयं श्रवणादिद्धाराऽपरोक्षज्ञानेन विषयीकरणीयमित्यर्थः । सौख्यस्य शुद्धत्वं नाम दुःखासंमिन्नत्वं मन्तव्यम् ।
अनेन विङेषण चतुष्येनाऽध्याय चतुष्टयार्थः सङ्गृहीत इति ध्येयम् । तथा च भगवतो विषयत्वाच्छृद्धसौख्यस्य
परमप्रयोजनत्वान्मति इब्दोक्तापरो्ज्ञानस्य चावान्तरप्रयोजनत्वाच्छमतमानाञ्च अधिकारित्वा्यथायोग्यं
सम्बन्धस्धावात्मरक्षावतामत्र प्रवत्तिरुचितेत्यपिसूचितम् । गुणपूर्णत्वोपपादनायाह ॥ सकठेति ॥ वैदिकानां सर्वडाब्दानां
यौगिकत्वात्तदमिधेयत्वे सकलगुणपूर्णत्वमेव सिद्धयति । यथोक्तं ““अतोऽनन्तगुणो पिष्णुर्यच्छब्दायोगवृत्तय” इति ।
ननु कासुचिच्छाखासु अन्यथाप्युच्यमानत्वात्रविष्णोनिङ्खिलनिगमगेयत्वंयुक्तमित्यादाङ्कापरिहाराय सूत्रकृटुक्तं गति
सामान्यं हृदि निधायाह ॥ सर्वब्देति ॥ वैदिकप्रकृत्यादि सर्वङञब्दाभिधेयमित्यर्थः । अतो नानयोरविदोषणयोः
पुनरुक्तिरितिभावः । यद्वा अधिकारिभेदेन वाक्यसमन्वयपदसमन्वयाभ्यां भगवानेव प्रतिपाद्य इति
वाक्यान्वयाल्योतिरपक्रमादित्यादि सूत्रोक्तप्रकारं हदि निधायेदं विशेषणद्वयम् । अतो न पुनरुक्तिरिति मन्तव्यम् ।
निराकारस्य ब्र्मणोबुद्धावनारोहाच्छुभतममतिमेयत्वं यदुक्तं॑तदयुक्तमित्यादङ्कापरिदहारायोक्तं नव्जलधरकाय
मितीत्याहुः । वस्तुतस्तु निखिरगुणनिकायमित्यनेनैव निराकारत्वशङ्कायाः परिहतत्वात्स्वोपास्यदेवता
स्वरूपकथनायैवेदं विरोषणमिति मन्तव्यम् । नवजलधसोवर्षाकाटीनो मेषः तदवद्वियमानः कायो यस्य तं नीठमेघदयाम
श्रीकृष्णमित्यर्थः । लक्ष्मीसदहायमित्यत्र लक्ष्याः सहाय इति विग्रहो न तु रक्ष्मीरव सहायो यस्येति ।
तथात्वे महि मातिदायाऽलाभात् । एवं च रक्ष्याः भगवान्सदाय इति वचनेन ग्रस्य वाङ्गनोव्यापार रूपत्वावक्षप्याश
वाह्ननसदेवतात्वाय््नष््या वाद्भनसदेवतात्वं तदपि तदधीनमिति प्रमेय सूचनेन भगवतो महामदिमा रुभ्यत
इति ध्येयम् ॥ ।
स्वापिक्षितविध्ननिवारणगुणवच्वेन भगवन्तं सेवते । विष्नौघेति ॥ सत्यादोषेतिविदोषणमुत्तरग्रथोपक्षे पाय
भूमिकारचनरूपमिति ज्ञेयम् ॥ आदिगुरून्सेवते ॥ अभ्रममिति ॥ भ्रमरूपन्ञानरहितम् । गङ्गादिस्व॑तीर्येषु भ्रमो
नामाऽञवत॑स्तिष्ठतीत्यादायः । भङ्गरदितं प्रतिवादिप्रयक्तपराभवरदितम् । अन्यत्र तु वसन्तादिकाठे प्रवाहविच्छेदरूपो
भङ्गोस्तीत्यवसेयम् । अजडं जाटयाख्यदोषरदितम् । इतस्र तु जकात्मकत्वात् जाद्यमस्तीति बोध्यम् । विमलं
विगतमलम् । “शमं पापमुदष्टं रागद्धेषादिकं तथा । अपराधश्च शमलं मलं च शमलं विदु" रितिकर्मनिर्णय
स्मरणादिना आध्यात्मिकादितापत्रयवारकम् । इतर तु आधिभौतिकाख्यबाह्य तापवारकत्वमेवेतिध्येयम् । अत
एवातुलं गङ्गादितीांसद्दा । ॥ । जयतीर्थवाक्स्तुतिव्याजेन तान्स्तौति ॥ चित्रैरिति ॥ पदानां चित्तव
नामाऽऽकाक्षादियक्तत्वम् । वाक्यानां गं भीरत्वं नामास्पषटर्थत्वम् । मानानामखण्डितत्वं नाम प्रतिप्रमाणराहित्यं
द्रष्य! गुरोरानन्दतीर्थस्य योगुरूभावस्तम् । स्वसंन्यासगुरु सेवते ॥ समुत्सार्येति ॥ भास्करपक्षे विष्णुपदमाकाडम् ।
“'वियद्वष्णुपदव्योमे" त्यभिधानात् । स्वविद्यागुरुन्य्रणमति ॥ ज्ञानेति ॥ स्वग्रन्थनामाह ॥ श्रीमध्वेति ॥
प्रसिद्धाऽमृतपक्षे विबुधादेवाः । ग्रन्थपक्षे विबुधाः पण्डिताः । न्यायामृतोद्धरणस्य मूरकोरीरव शिष्यैः कर्तु
शक्यत्वाव्य्थोयिं भवतां श्रम इत्यत आह ॥ विक्षिप्ेति ॥ ` अनुक्तेति ॥ भगवत्पाददीकाकाराभ्यां
कण्ठतोऽनुक्तमरथादुक्तमिति व्याख्येयम् । अन्यथातदुभयपिक्षया स्वस्य सार्वज्यापत्तिरितिष्येयम् ॥
॥ 2. विप्रतिपत्तिविचारः ॥