॥ वैयाकरणसिद्धान्तकौमुदी ॥ ॥ भट्टोजिदीक्षितविरचिता ॥
॥ अथ सञ्ज्ञाप्रकरणम् ॥
(0)मङ्गलाचरणम् 0-0-0
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ 1 ॥ येन धौता गिरः पुंसां विमलैश्शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ 2 ॥ वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् । पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् ॥ 3 ॥ मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ 4 ॥
(00)अइउण् । ऋलृक् । एओङ् । ऐऔच् । हयवरट् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव् । कपय् । शषसर् । हल् । 0-0-1
इति माहेश्वराणि सूत्राण्यणादिसञ्ज्ञार्थानि । एषामन्त्या इतः । लण्सूत्रे अकारश्च । हकारादिष्वकार उच्चारणार्थः ।
(1)हलन्त्यम् 1-3-3
हल् (मा.सू.-14) इति सूत्रेऽन्त्यमित्स्यात् ।
(2)आदिरन्त्येन सहेता 1-1-71
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च सञ्ज्ञा स्यात् ॥ इति हल्सञ्ज्ञायाम् ॥ उपदेशेऽन्त्यं हलित्स्यात् ॥ उपदेश आद्योच्चारणम् ॥ ततः अण् अच् इत्यादिसञ्ज्ञासिद्धौ ॥
(3)उपदेशेऽजनुनासिक इत् 1-3-2
उपदेशेऽनुनासिकोऽजित्सञ्ज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः सञ्ज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः प्रत्याहारशब्देन व्यवह्रियन्ते ॥
(4)ऊकालोऽज्झ्रस्वदीर्घप्लुतः 1-2-27
उश्च ऊश्च ऊ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसञ्ज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥
(5)उच्चैरुदात्तः 1-2-29
ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसञ्ज्ञः स्यात् । आ ये ॥
(6)नीचैरनुदात्तः 1-2-30
स्पष्टम् ॥ अ(अ)र्वाङ् ॥
(7)समाहारः स्वरितः 1-2-31
उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसञ्ज्ञः स्यात् ॥
(8)तस्यादित उदात्तमर्धह्रस्वम् 1-2-32
ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा ।
क्व१ वोऽश्वाः । रथानां न ये२राः ॥ श(अ)तच(स्व)क्रं(अ) यो(अ)(स्व)3 ह्यः ॥ इत्यादिष्वनुदात्तः ॥ अ(अ)ग्निमी(स्व)ळे इत्यादावुदात्तश्रुतिः ॥ स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥
(9)मुखनासिकावचनोऽनुनासिकः 1-1-8
मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसञ्ज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥
(10)तुल्यास्यप्रयत्नं सवर्णम् 1-1-9
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसञ्ज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ॥ जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ॥
(11)अ अ 8-4-68
इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् ॥
(12)पूर्वत्रासिद्धम् 8-2-1
अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ॥
खयां यमाः खयः ᳵकᳶपौ विसर्गः शर एव च ।
एते श्वसानुप्रदाना अघोषाश्च विवृण्वते ॥
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः ।
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥
वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसञ्ज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ःकः पाविति इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अमः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः ॥ ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् (वा)॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ॥
(13)नाऽऽज्झलौ 1-1-10
आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥
(14)अणुदित्सवर्णस्य चाप्रत्ययः 1-1-69
प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य सञ्ज्ञा स्यात् । अत्राण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् ।
अ इत्यष्टादशानां सञ्ज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवं लृकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः सञ्ज्ञाः स्युरिति नापादनीयम् । नाज्झलौ 13 इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिः इत्यत्र हो ढः 324 इति ढत्वं न भवति । अनुनासिकाननुनासिकाभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः सञ्ज्ञा ॥
(15)तपरस्तत्कालस्य 1-1-70
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव सञ्ज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां सञ्ज्ञा । ऋदिति द्वादशानाम् ॥
(16)वृद्धिरादैच् 1-1-1
आदैच्च वृद्धिसञ्ज्ञः स्यात् ॥
(17)अदेङ्गुणः 1-1-2
अदेङ् च गुणसञ्ज्ञः स्यात् ॥
(18)भूवादयो धातवः 1-3-1
क्रियावाचिनो भ्वादयो धातुसञ्ज्ञाः स्युः ॥
(19)प्राग्रीश्वरान्निपाताः 1-4-56
इत्यधिकृत्य ॥
(20)चादयोऽसत्त्वे 1-4-57
अद्रव्यार्थाश्चादयो निपातसञ्ज्ञाः स्युः ॥
(21)प्रादयः 1-4-58
अद्रव्यार्थाः प्रादयस्तथा ॥
(22)उपसर्गाः क्रियायोगे 1-4-59
(23)गतिश्च 1-4-60
प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा गतिसञ्ज्ञाश्च स्युः ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः ॥
(24)न वेति विभाषा 1-1-44
निषेधविकल्पयोर्विभाषा सञ्ज्ञा स्यात् ॥
(25)स्वं रूपं शब्दस्याशब्दसञ्ज्ञा 1-1-68
शब्दस्य स्वं रूपं सञ्ज्ञि शब्दशास्त्रे या सञ्ज्ञा तां विना ॥
(26)येन विधिस्तदन्तस्य 1-1-72
विशेषणं तदन्तस्य सञ्ज्ञा स्यात् स्वस्य च रूपस्य ॥ । समासप्रत्ययविधौ प्रतिषेधः (वा) ॥ । उगिद्वर्णग्रहणवर्जम् (वा) ॥
(27)विरामोऽवसानम् 1-4-110
वर्णानामभावोऽवसानसञ्ज्ञः स्यात् ॥
(28)परः संनिकर्षः संहिता 1-4-109
वर्णानामतिशयितः सन्निधिः संहितासञ्ज्ञः स्यात् ॥
(29)सुप्तिङन्तं पदम् 1-4-14
सुबन्तं तिङन्तं च पदसञ्ज्ञं स्यात् ॥
(30)हलोऽनन्तराः संयोगः 1-1-7
अज्भिरव्यवहिता हलः संयोगसञ्ज्ञाः स्युः ॥
(31)ह्रस्वं लघु 1-4-10
(32)संयोगे गुरु 1-4-11
संयोगे परे ह्रस्वं गुरुसञ्ज्ञं स्यात् ॥
(33)दीर्घं च 1-4-12
दीर्घं च गुरुसञ्ज्ञं स्यात् ॥
। इति सञ्ज्ञाप्रकरणम् ।
॥ अथ परिभाषाप्रकरणम् ॥
(34)इको गुणवृद्धी 1-1-3
गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
(35)अचश्च 1-2-28
ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राच इति षठ्यन्तं पदमुपतिष्ठते ॥
(36)आद्यन्तौ टकितौ 1-1-46
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥
(37)मिदचोऽन्त्यात्परः 1-1-47
च इति निर्धारणे षष्ठी । अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ॥
(38)षष्ठी स्थानेयोगा 1-1-49
अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥
(39)स्थानेऽन्तरतमः 1-1-50
प्रसङ्गे सति सदृशतम आदेशः स्यात् । [(प) यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः] ॥
(40)तस्मिन्निति निर्दिष्टे पूर्वस्य 1-1-66
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥
(41)तस्मादित्युत्तरस्य 1-1-67
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥
(42)अलोऽन्त्यस्य 1-1-52
षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥
(43)ङिच्च 1-1-53
अयमप्यन्त्यस्यैव स्यात् । सर्वस्य 45 इत्यस्यापवादः ॥
(44)आदेः परस्य 1-1-54
परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य 42 इत्यस्यापवादः ॥
(45)अनेकाल्शित्सर्वस्य 1-1-55