यादवाभ्युदयं महाकाव्यम्
ध्यानम् ।
श्रीकृष्णाय परस्मै परब्रह्मणे नमः ।
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै ।
मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥
श्रीमच्छीतांशुवंशे जनितगुणनिधेर्दिव्यलीलाप्रबन्धम् ।
श्रीमद्वेदान्तसूरेर्भणितसुरुचिरं यच्चरित्रं प्रशस्तम् ॥
सूक्तं शृङ्गारशान्त्यादिबहुरसयुतं सज्जनानां निधानम् ।
तद्वन्दे काव्यरत्नं कलिमलहरणं श्रीचिदानन्दरूपम् ॥
यादवाभ्युदयं काव्यं वेङ्कटेशेन निर्मितम् ।
श्रीकृष्णचरितं पुण्यं सर्वलोकमनोहरम् ॥
वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै ।
मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥
॥ कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयमहाकाव्यम् ॥
॥ प्रथमः सर्गः १ ॥
वन्दे वृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १-१ ॥
यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः ।
यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥ १-२ ॥
शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि ।
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥ १-३ ॥
वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।
अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥ १-४ ॥
स कविः कथ्यते स्रष्टा रमते यत्र भारती ।
रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥ १-५ ॥
तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् ।
न दोषायैतदुभयं न गुणाय च कल्पते ॥ १-६ ॥
प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।
न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥ १-७ ॥
विहाय तदहं व्रीडां व्यासवेदार्णवामृतम् ।
वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ १-८ ॥
क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।
एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ १-९ ॥
जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।
परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥ १-१० ॥
यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।
सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥ १-११ ॥
समवर्धत तद्वंशः उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १-१२ ॥
बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ ।
यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १-१३ ॥
नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥ १-१४ ॥
शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे ।
यथावत् साधकस्येव यावदर्था सरस्वती ॥ १-१५ ॥
वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १-१६ ॥
विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता(रा)॥ १-१७ ॥
निदेशं तस्य राजानो न शेकुरतिवर्तितुम् ।
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥ १-१८ ॥
तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।
भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥ १-१९ ॥
यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः ।
समानगणनालेख्ये निस्समानैर्निषद्यते ॥ १-२० ॥
देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः ।
ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्षदैः ॥ १-२१ ॥
स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।
न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ १-२२ ॥
अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः ।
अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥ १-२३ ॥
शराणां शात्रवाणां च सन्धानेन महौजसः ।
तस्य निर्धूतलक्षेण द्विः कचिन्नाप्यभृयत ॥ १-२४ ॥
युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।
दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ १-२५ ॥
यशःप्रसूनसुरभिर्यदुसन्तानपादपः ।
बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥ १-२६ ॥
वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः ।
जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥ १-२७ ॥
आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः ।
सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥ १-२८ ॥
तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः ।
जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ १-२९ ॥
स विष्णुरिव लोकानां तपनस्तेजसामिव ।
समुद्र इव रत्नानां सतामेकाश्रयोभवत् ॥ १-३० ॥
प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः ।
रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥ १-३१ ॥
अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः ।
ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥ १-३२ ॥
स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् ।
व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥ १-३३ ॥
अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः ।
यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥ १-३४ ॥
कयाचिदशरीरिण्या वाचा व्यवसितायतिः ।
देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥ १-३५ ॥
स कालातिबलः कंसः कालनेमिरनेहसा ।
सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥ १-३६ ॥
एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।
प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥ १-३७ ॥
विदितं भवतां देवाः! विश्वरूपेण विष्णुना ।
महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥ १-३८ ॥
अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः ।
असङ्खथैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥ १-३९ ॥
अत आलोचितजगद्धितैः सुरगणैः स्वयम् ।
(अतः स्वयं सुरगणैरालोचितजगद्धितैः?)
न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥ १-४० ॥
इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।
अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥ १-४१ ॥
पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः ।
दुग्धोदधिशयं देवं दुरमेत्याभितुष्टुवुः ॥ १-४२ ॥
त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥ १-४३ ॥
अनन्याधीनमहिमा स्वाधीनपरवैभवः ।
दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥ १-४४ ॥
स भवान् गुणरत्नौघैर्दीप्यमानो दयाम्बुधिः ।
तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥ १-४५ ॥
त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदम्परैः ।
निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥ १-४६ ॥
अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।
वितथा वेदपान्थानां यत्रसायङ्गृहा गतिः ॥ १-४७ ॥
नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः ।
पुत्रैः पितृमतः क्रिडा कथं ते केन वर्ण्यते ॥ १-४८ ॥
नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।
पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥ १-४९ ॥
ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥ १-५० ॥
निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।
निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥ १-५१ ॥
अनाविलधियामन्तश्चिन्तामणिरिव स्फुरन् ।
दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥ १-५२ ॥
संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।
त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥ १-५३ ॥
दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।
समग्रगुणसम्पन्नः तारकस्त्वं प्लवो महान् ॥ १-५४ ॥
अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।
निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥ १-५५ ॥
अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।
सङ्कल्पसचिवः काले (लः)शक्तिलेशः स तावकः ॥ १-५६ ॥
यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते)।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥ १-५७ ॥
त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् ।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥ १-५८ ॥
यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।
तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥ १-५९ ॥
त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् ।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥ १-६० ॥
अनन्यरक्षाव्रतिनं चातकव्रतचारिणः ।
भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥ १-६१ ॥
अनिदम्पूर्वनिद्राणामनस्तमयभानुमान् ।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥ १-६२ ॥
त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥ १-६३ ॥
सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।
जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥ १-६४ ॥
सदैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः ।
अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥ १-६५ ॥
ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥ १-६६ ॥
पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया ।
स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसम्पदम् ॥ १-६७ ॥
सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् ।
स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥ १-६८ ॥
आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।
अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥ १-६९ ॥
उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।
शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥ १-७० ॥
स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥ १-७१ ॥
श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥ १-७२ ॥
स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् ।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥ १-७३ ॥
अनपायं तमादित्यमक्षयं तारकाधिपम् ।
अपारममृताम्भोधिममन्यन्त दिवौकसः ॥ १-७४ ॥
अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥ १-७५ ॥
तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।
निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥ १-७६ ॥
त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् ।
तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥ १-७७ ॥
चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् ।
हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥ १-७८ ॥
जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥ १-७९ ॥
यदि न त्वरते नाथ भारव्यपनये भवान् ।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥ १-८० ॥
करुणाधीनचित्तेन कर्णधारवती त्वया ।
माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥ १-८१ ॥